बान्धवा:
संस्कृत आङ्गलभाषा शब्दकोष: लब्ध:
भवदीय
हिमांशु
विस्मृता कथम् ?
अद्य प्रतिमा परमप्रीता । सद्य: प्रभाते यद् घटितं तत् स्मारं स्मारं तस्या: हृदयं हर्षेण उल्लसितं शरीरं च अधुनापि पुन: पुन: पुलकितम् ….
प्रभाते आपणात् प्रत्यागत: प्रबोध: अब्रवीत् ,” कथय प्रतिमे, मया त्वदर्थम् किम् आनीतं स्यात् ? ” किं नूतना शाटिका ? प्रबोध, मया कतिवारं त्वं वारित: यत् त्वम् अधुना मदर्थम् व्ययं मा कुरु । तवापि नूतन –युतकेन प्रयोजनम्, तव पादत्रे अपि विशीर्णप्राये ….” तां मध्ये एव वारयन् प्रबोध: तस्या: हस्ते सम्पुटमेकम् अस्थापयत् । तत्रासीत् बहुमूल्यम्, परमस्पृहणीयं नासाभरणम् । स्तब्धा, चकितचकिता सा कानिचित् पलानि वक्तुम् अपि अक्षमा । किञ्चित्कालात् परं सा गद्गद- स्वरेण अकथयत्, “प्रबोध जानामि तव प्रीतिं किन्तु एतदपि जानामि यद् वयं न तावद् धनिन: । तर्हि किमर्थम् एतावद् वययं करोषि? “पुनरपि तां मध्ये एव आक्षिपन प्रबोध: अवदत्, ” प्रतिमे , धारय एतत् । अनेन सुभूषितं तव वदनं द्रष्टुकामोऽहम् ।” “नासाभरणभूषितं स्मितोज्जवलं मम मुखं निरीक्ष्य स कियत् प्रसन्न्:! ” एवं चिन्तयन्ती सा हर्षेण उन्मत्ता इव अभवत् । सम्पूर्णं दिनं सा कमपि अमिलतं तं नासाभूषणं दर्शयन्ती वयाहरत्, ” पश्य मे नासाभरणम् । किं नास्त्येतत् मनोहरम् ? मम भर्त्रा उपहृतम् । सत्यम्, स: मयि कियत् स्निह्यति ! ”
दिनावसाने सा यथानित्यं भगवत्कथां श्रोतुं गता । किन्तु तस्या: मन: अद्य भतरिं विहाय अन्यत्र कुत्रापि न रमते । समाप्तायां कथायां सा कथावाचकं महात्मनम् अपि नासाभरणं दर्शयन्ती भर्तु: विषये एव आलपत् । स सर्वं सधैर्यं श्रुत्वा सदयस्वरेण अगदत् – वत्से,
नासाभरणदातारं स्मरसि त्वं पुन: पुन: ।
नासिकाया: प्रदातारं सर्वथा विस्मउता कथम् ॥
you are repeatedly remembering the one who gifted you the nose ring (ornament that is worn in nose)
how could you completely forgot THE ONE who gave you the nose.
———- meaning of new words ———
घटितं = happened, आपणात् = from grain-shop, शाटिका= saari (Indian women ware 5 meter long cloth), वययं = waste, युतकेन = shirt, पादत्रे = shoes सम्पुटमेकम् = a box, नासाभरणम् = nose ring (ornament of nose), धारय एतत् = wear (it) or put in on भर्त्रा = husband
——————————————————————————–
त्रिसुपर्ण
ॐ ब्रह्ममेतु माम् | मधुमेतु माम् | ब्रह्ममेव मधुमेतु माम् |
यास्ते सोम प्रजा वत्सोऽभि सो अहम् | दुःष्वप्नहन् दुरुष्षह |
यास्ते सोम प्राणाँस्ताञ्जुहोमि |
त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् | ब्रह्महत्यां वा एते घ्नन्ति | ये ब्राह्मणास्त्रिसुपर्णं पठन्ति | ते सोमं प्राप्नुवन्ति |
आ सहस्रात् पङ्क्तिं पुनन्ति | ओम् || 38
ॐ ब्रह्म मेधया | मधु मेधया | ब्रह्ममेव मधुमेधया |
अद्यानो देव सवितः प्रजावत्सावीः सौभगम् | परा दुःष्वप्नियँ सुव | विश्वानि देव सवितर्दुरितानि
परासुव | यद्भद्रं तन्म (internet version says tanmama) आसुव
मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः | माध्वीर्नः
सन्त्वोषधीः | मधु नक्तमुतोषसि मधुमत्पार्थिवँ
रजः | मधुद्यौरस्तु नः पिता | मधुमान्नो वनस्पतिर्मधुमाँ
अस्तु सूर्यः | माध्वीर्गावो भवन्तु नः |
य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् |
भ्रूणहत्यां वा एते घ्नन्ति |
ये ब्राह्मणास्त्रिसुपर्णं पठन्ति | ते सोमं प्राप्नुवन्ति | आसहस्रात्पङ्क्तिं पुनन्ति ॥
ॐ ब्रह्म मेधवा | मधु मेधवा | ब्रह्ममेव मधु मेधवा |
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां
महिषो मृगाणाम् |
श्येनो गृद्धाणाँ स्वधितिर्वनानाँ
सोमः पवित्रमत्येति रेभन् internet version says rebhat.h||
हँसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् |
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥
य इमं (internet version says idaM) त्रिसुपर्णमयाचितं ब्राह्मणाय
दद्यात् |
वीरहत्यां वा एते घ्नन्ति |
ये ब्राह्मणास्त्रिसुपर्णं पठन्ति | ते सोमं प्राप्नुवन्ति |
आसहस्रात् पङ्क्तिं पुनन्ति ॥ 40.6
read more on www.sanskritdocuments.org here
Composed on 9/29/2007 11:37
तर्हि कीदृशः राजा ?
कश्चिद् राजा सपरिजनः ससमारोहं क्वचिद् गच्छति स्म । मार्गमध्ये कोऽपि भक्तिमदमत्तः अवधू्तमहात्मा उपविष्टः आसीत् ।
आरक्षिणः तं मार्गात् अपसारयितुम् ऐच्छन्, किन्त स नैव अपसृतः । राजा स्वयं गजात् अवतीर्य, तत्रागत्य साधुम् अब्रवीत् -”राजमार्गात् अपसरतु”
महात्मा – कुतः ?
राजा – यतोऽहं सम्राट् ।
महात्मा – सम्राट् ? का विशेषता महाराजे श्रीमति ?
राजा – विशेषता ? अहं यं कमपि अस्मात् राज्यात निष्कासयितुं शक्नोमि ।
महात्मा – साधु । स्वकीयराज्यस्य सकलाः मक्षीमशकपिपीलिकाः आदेशेन निष्कासयतु ।
राजानं निरुत्तरं दृष्ट्वा महात्मा ईषत् स्मयमानः अब्रवीत् -”निष्कासयितुं न शक्नोषि किम् ? तर्हि राजा किदृशः ?”
राजा श्रद्धावन्तः महात्मानं राजप्रासादे पदार्पणार्थं प्रार्थयत । महात्मा राज्ञा सह प्रस्थितः । प्रासादस्य प्रवेशद्वारे शस्त्रधारिप्रहरिणः दृष्ट्वा महात्मा अपृच्छत् -”इमे अत्र कुतः तिष्ठन्ति ?”
“रक्षार्थम्” इति उत्तरम् प्राप्तम्
महात्मा पुनः सस्मितम् अब्रवीत् – “राजा तु बन्दी, राजा कीदृशः ?”
प्रासादे राजा ईश्वरसमक्षम् अञ्जलिं बद्धवा सुखसमृद्ध्यर्थं प्रार्थनां कर्तुमारभत ।
महात्मा प्रहसन्नब्रवीत् -”राजा तु भिक्षुकः, राजा कथम् !”
राजा अवधूतस्य चरणयोः अपतत् सत्यः सम्राड् भवेयम् इति सानुरोधं प्रार्थयत च ।
चरित्रवर्णनम् સંસ્કૃત વાર્તાનો- ગુજરાતી ભાવાનુવાદ “ચરિત્ર વર્ણન”
કોઇકવાર કોઇએક રાજાએ પોતાની સભામાં કવિસંમેલન યોજ્યું . તેણે જાહેર કર્યું કે જે કવિ પોતાની કવિતામાં રાજાના ચરિત્રનુ યથાર્થ વર્ણન કરશે તેમને એક શુદ્ધ હીરો ઇનામ આપવામાં આવશે. તે સમ્મેલનમાં ઘણા કવિઓ આવ્યા અને પોતાની કવિતા સંભળાવી (જેમાં) રાજાના ભારોભાર વખાણ કર્યા. આમ દરેક કવિએ રાજાની હદુપરાંત પ્રશંસા કરી અને આથી રાજાએ તેમને એક એક હીરો આપ્યો. છેલ્લે ‘સાધુરામ’ નામનો કોઇ કવિ પોતાની કવિતા સંભળાવવા ગભરાતો ગભરાતો મંચ ઉપર આવ્યો, પહેલા તેણે રાજાના બે-ત્રણ વખાણ કર્યા, પછી અવગુણોનું વર્ણન શરુ કર્યું. રાજાએ તેને પણ એક હીરો ઇનામ આપ્યો
ત્યારબાદ બધાં કવિઓ (પોત)પોતાનો હીરો લઇને તેનું મૂલ્યાંકન કરાવવા ઝવેરી પાસે ગયા. સાધુરામના હીરા સિવાય બધાના હીરા કૃત્રિમ (નકલી) હતાં.
કવિઓ રાજા પાસે જઇને બોલ્યાં — ‘મહારાજ, તમે આપેલ બધાં હીરા નકલી છે, તેના વડે થોડું અનાજ પણ ઉપજી શકે તેમ નથી.
રાજા આવેશપૂર્વક બોલ્યા — ‘તમે કવિતામાં મારા વિષે જે પણ બોલ્યા તે બધું પણ ખોટું છે. મારા ચરિત્રનું સાચું ચિત્રણ માત્ર સાધુરામે જ કર્યું’
Composed on 9/28/2007 11:05
चरित्रवर्णनम्
कदाचित् कश्चिद् राजा निजसभायां कविसंमेलनम् आयोजामास । सः अघोषयत् यः कविः निज-काव्येन राज्ञःचरित्रस्य यथार्थवर्णनं करिष्यति तस्मै एकं शुद्ध हीरकम् उपहाररूपेण प्रदास्यते इति । सम्मेलने बहवः कवयः समागत्य स्वकीयाः कविताः अश्रावयन्, नृपं च भूरिशः प्राशंसन् । इत्थं प्रत्येकं कविः राज्ञः अतिरञ्जितां स्तुतिम् अकरोत्, राजा च तस्मै एकं हीरकम् अददात् । अन्ते “साधुराम” नामकः कश्चित् कविः स्वकविता श्रावयितुं सभयं मञ्चम् उपस्थितः आदौ सः राज्ञः द्वित्रान् गुणान् अवर्णयत्, पश्चात् अवगुणानां वर्णनम् आरभत । राजा तस्मै अपि हीरकमेकम् उपाहरत् ।
ततः सर्वेऽपि कवयः स्वस्वहीरकं गृहीत्वा तस्य मूल्याङ्कनाय रत्नपरीक्षकान् उपगताः । साधुरामस्य हीरकं विहाय सर्वेऽपि हीराः कृत्रिमाः आसन् ।
कविगणाः राजानम् उपगम्य अवदन् — “महाराज, इमे हीरा तावद् असत्याः, एषां विनिमयेन कश्चिद् आणकम् अपि न उद्यतः ।”
राजा सावेशम् अवदत् — “यूयं स्वकवितासु मद्विषये यत्किमपि अवदत तदपि असत्यम् एव आसीत् । मम चरित्रस्य सत्यचित्रणं केवलं साधुरामः एव अकरोत् ।”
Composed on 9/27/2007 11:29
कः खलु महान् ?
एकदा भक्त शिरोमणिः देवर्षिः नारदः अचिन्तयत् – “को नु खलु सर्वमहान् अस्मिन संसारे ?” इमां जिज्ञासां शमयितुं स तत्त्वज्ञानिनः महापुरुषान् उपगतः । तेषु एकः अवदत् – “भगवान् एव महतो महीयान् ।” अपरश्च भगवतः गुणगायकं भक्तमेव सर्वश्रेष्ठम् अकथयत् । अन्ये ब्रह्म-विष्णु-महेशादीन् देवान् उच्चतमान् अघोषयन् । अन्ततः नारदः सन्देहाकुलः व्यचारयत् – “कः खलु अस्य प्रश्नस्य समीचीनमुत्तरं दातुं समर्थः ? न हि कोऽपि इदृशप्रश्नान् उत्तरयितुं प्रभवति भगवन्तं विना ।” एवं निश्चित्य स सच्चिदानन्दस्य भवभयहारिणः भगवतः विष्णोः वैकुण्ठलोकम् अगच्छत्, तत्र च प्रभुं साष्टाङ्गं प्राणमत् ।
प्रभुः अपृच्छत्- “देवर्षे, कथं दर्शनं दत्तम् अत्रभवता ? कच्चित् कुशलं श्रीमताम् ?”
नारदः निजागमनप्रयोजनं निवेदितवान् ।
तस्य प्रश्नं निशम्य भगवान् च उवाच – मुनिवर, पृथिवी एव सर्वमहती यतो हि एषा सर्वेषामाश्रयः ।
नारदः अवदत् – सा तु समुद्रेण परिवेष्टिता । अथ कथं सा महती भवितुम् अर्हति ?
भगवान् अभाषत् – तर्हि समुद्रः एव सर्वमहान् ।
नारदः अकथयत् – प्रभो, स तु अगत्स्यमुनिना चुलुकिकृतः । स महान् कथम् ?
भगवान् अब्रवीत् – तर्हि अगत्स्यमुनिः महान् ।
नारदः अवादीत्- नाथ, यदा स मुनिवरो ध्यानावस्थितो भवति तदा सः अस्मिन् अनन्ताकाशे खद्योतवत् स्फूरितुम् आरभते । तर्हि स महान् कथं भवितुमर्हति ?
भगवान् अभणत् – अस्तु तर्हि आकाशः सर्वमहान् ।
नारदः अवदत्- महाराज, विचित्रं खलु वदति भवान् । यदा भवान् वामनरुपेण अवातरत् तदा एकेनैव पादेन आकाशम् अमात् । तर्हि आकाशः महान् कथं मन्येत ?
भगवान् अकथयत् – नारदमुने, युक्तमुक्तं भवता, वस्तुतः मम चरणः एव सर्वमहान् ।
नारदः अब्रवीत्- प्रभो, भवतः चरणः तावत् मया हृदये धृतो वर्तते तर्हि स महान् कथम् ?
एतन्निषम्य भगवान् विहस्य अवदत् – देवर्षे नारद, तर्हि भवानेव सर्वमहान् । ये सततं मच्चरणचिन्तने निमग्नाः ते एव संसारे सर्वमहान्तः ।
एतद् अकर्ण्य प्रफुल्लितः अभवत् नारदः । भगवन्तं प्रणम्य च सः नारायण, नारायण इति जपन् मर्त्यलोकस्य सन्तप्तप्राणिनः निजयात्रायाः सन्देशं श्रावयितुं भूतलं प्रतिनिवृत्तः ।
Composed on 9/27/2007 11:28
वन्दे मातरम् – बंकिम चन्द्र चट्टोपाध्याय
वन्दे मातरम्
सुजलां सुफलां मलयजशीतलाम्
शस्य श्यामलां मातरं |
शुभ्र ज्योत्स्ना पुलकित यामिनीम्
फुल्ल कुसुमित द्रुमदलशोभिनीम्,
सुहासिनीं सुमधुर भाषिणीम् .
सुखदां वरदां मातरम् .. वन्दे मातरम्
सप्त कोटि कण्ठ कलकल निनाद कराले
निसप्त कोटि भुजैर्ध्रुत खरकरवाले
के बोले मा तुमी अबले
बहुबल धारिणीं नमामि तारिणीम्
रिपुदलवारिणीं मातरम् .. वन्दे मातरम्
तुमि विद्या तुमि धर्म,
तुमि हृदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारै प्रतिमा गडि मंदिरे मंदिरे .. वन्दे मातरम्
त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदल विहारिणी
वाणी विद्यादायिनी,
नमामि त्वाम् नमामि कमलां अमलां अतुलाम्
सुजलां सुफलां मातरम् .. वन्दे मातरम्
श्यामलां सरलां सुस्मितां भूषिताम् धरणीं भरणीं मातरम् .. वन्दे मातरम्
Composed on 9/27/2007 11:28
शुद्धहृदयम्
आसीत् कोऽपि ब्राह्मणः । असौ अत्यल्पशिक्षितः । प्रतिदिनं स्नानात् परं स शुद्धमनसा प्रभुं स्मरति गीतापाठं च करोति । गीतायाः शब्दानां शुद्धोच्चारणं कर्तुं सः असमर्थः । तथापि प्रभुस्मरणे गीतापाठे च सः आनन्दमग्नः एव अभवत् । एकदा प्रख्यातभक्तः गौराङ्गदेवः तम् अपृच्छत्– “बन्धो, त्वं प्रभुस्मरणे गीतापाठे च एतावदानन्दं प्राप्नोषि, तस्य कारणं किम् ? ” ब्राह्मणः प्रत्यवदत् — “अहं स्वगुरोः आज्ञानुसारेण प्रतिदिनं श्रीमद्भगवद्गीतायाः पाठं करोमि, पाठकाले च चतुर्भुजं श्रीकृष्णम् अर्जुनस्य रथे स्थित्वा उपदिशन्तं साक्षात् पश्यामि । तेन च मम मनसि अपारः आनन्दः उत्पद्यते ।” एतत् श्रुत्वा गौराङ्गमहाप्रभुः रोमाञ्चितशरीरः तं वक्षसा आलिङ्ग्य अवदत् — “प्रभोः श्रीकृष्णस्य प्रियगीतायाः सारः त्वया एव यथार्थम् अवबुद्धः । यस्य हृदयं शुद्धं तस्य भाषा शुद्धा न वा इति न अवेक्षते विभुः ।”
Composed on 9/27/2007 11:27
सहिष्णुतायाः फलम्
आसीत् कोऽपि साधुः । एकदा स क्वचिद् गच्छति स्म । मार्गे स पश्यति यत् कश्चित् युवकः हस्तेन तुम्बर वादयन् अश्लीलगीतानि गायन् आस्ते ।
साधुः तत्समीपं गत्वा तिष्ठति उच्चैः आक्रोशितुं च आरभते — “प्रभुवर, त्वं सर्वमहान् । त्वमेव सर्वेषां रक्षकः । त्वां विनाऽस्य संसारस्य एकं पर्णमपि चलितुं न शक्नोति ।”
युवकः हर्षमत्तः गायति स्म । साधुम् आक्रोशन्तं दृष्ट्वा सोऽतिव कुपितः चीत्कृत्य अवदत् — “तूष्णीं भव । किं प्रजल्पसि ?”
साधुः तस्य वचने कर्णं न अदात् । स पुनरपि अवदत् — “हे प्रभो, बुद्धिहीनाय बुद्धिं देहि ।”
एतत् श्रुत्वा युवकः अत्यन्तं कृद्धः सन् तं तुम्बरेण सबलं शिरसि अताडयत् । तुम्बरं खण्डशः अभवत् । साधोः मस्तकाद् रक्तधारा अस्रवत्, परं स शब्दं न उच्चरन् अग्रे प्रस्थितः ।
स्वकुटीम् आगत्य स सर्वमपि वृत्तं शिष्याय निवेद्य अवदत् — “त्वं तं युवकम् उपगम्य तस्मै तुम्बरस्य मूल्यं मिष्टान्नपूर्णां स्थालीं च प्रयच्छ । अतिगर्ह्यः खलु क्रोधः । खिद्येऽहं यत् मम हेतोः स इदृक् कुपितः ।”
शिष्यः तुम्बरमूल्यं मिष्टान्नानि च गृहित्वा तत्र गत्वा तमवदत् — “इमानि द्रव्याणि साधुना तुभ्यं प्रेषितानि ।”
एतत् श्रुत्वा तत्कालं युवकस्य नेत्रे उन्मीलिते । स धावं धावं साधुम् उपगतः । स्वकार्याय च क्षमां प्रार्थयत ।
साधुः तम् अत्यन्तप्रेमपूर्वकं वक्षसा आलिङ्गितवान् ।