शुद्धहृदयम्

शुद्धहृदयम्

आसीत् कोऽपि ब्राह्मणः । असौ अत्यल्पशिक्षितः । प्रतिदिनं स्नानात् परं स शुद्धमनसा प्रभुं स्मरति गीतापाठं च करोति । गीतायाः शब्दानां शुद्धोच्चारणं कर्तुं सः असमर्थः । तथापि प्रभुस्मरणे गीतापाठे च सः आनन्दमग्नः एव अभवत् । एकदा प्रख्यातभक्तः गौराङ्गदेवः तम् अपृच्छत्– “बन्धो, त्वं प्रभुस्मरणे गीतापाठे च एतावदानन्दं प्राप्नोषि, तस्य कारणं किम् ? ” ब्राह्मणः प्रत्यवदत् — “अहं स्वगुरोः आज्ञानुसारेण प्रतिदिनं श्रीमद्भगवद्गीतायाः पाठं करोमि, पाठकाले च चतुर्भुजं श्रीकृष्णम् अर्जुनस्य रथे स्थित्वा उपदिशन्तं साक्षात् पश्यामि । तेन च मम मनसि अपारः आनन्दः उत्पद्यते ।” एतत् श्रुत्वा गौराङ्गमहाप्रभुः रोमाञ्चितशरीरः तं वक्षसा आलिङ्ग्य अवदत् — “प्रभोः श्रीकृष्णस्य प्रियगीतायाः सारः त्वया एव यथार्थम् अवबुद्धः । यस्य हृदयं शुद्धं तस्य भाषा शुद्धा न वा इति न अवेक्षते विभुः ।

One Response to “शुद्धहृदयम्”

  1. N.Mohana Krishna Says:

    Nasksram.
    Aaseed bhavadbhi laghu vyakhya attyanthta
    anusaraneeyam iti,

    Namasi Bhooyansi,
    Naryanabhatta Mohana krishna Sarma.
    Kakinada .


Leave a Reply