विस्मृता कथम् ?

विस्मृता कथम् ?

अद्य प्रतिमा परमप्रीता । सद्य: प्रभाते यद् घटितं तत् स्मारं स्मारं तस्या: हृदयं हर्षेण  उल्लसितं शरीरं च अधुनापि पुन: पुन: पुलकितम् ….

प्रभाते आपणात् प्रत्यागत: प्रबोध: अब्रवीत् ,” कथय प्रतिमे, मया त्वदर्थम् किम् आनीतं स्यात् ? ” किं नूतना शाटिका ? प्रबोध, मया कतिवारं त्वं वारित: यत् त्वम् अधुना मदर्थम् व्ययं मा कुरु । तवापि नूतन -युतकेन प्रयोजनम्, तव पादत्रे अपि विशीर्णप्राये ….” तां मध्ये एव वारयन् प्रबोध: तस्या: हस्ते सम्पुटमेकम् अस्थापयत् । तत्रासीत् बहुमूल्यम्, परमस्पृहणीयं नासाभरणम् । स्तब्धा, चकितचकिता सा कानिचित् पलानि वक्तुम् अपि अक्षमा । किञ्चित्कालात् परं सा गद्गद- स्वरेण अकथयत्, “प्रबोध जानामि तव प्रीतिं किन्तु एतदपि जानामि यद् वयं न तावद् धनिन: । तर्हि किमर्थम् एतावद् वययं  करोषि? “पुनरपि तां मध्ये एव आक्षिपन प्रबोध: अवदत्, ” प्रतिमे , धारय एतत् । अनेन सुभूषितं तव वदनं द्रष्टुकामोऽहम् ।” “नासाभरणभूषितं स्मितोज्जवलं मम मुखं निरीक्ष्य स कियत् प्रसन्न्:! ” एवं चिन्तयन्ती सा हर्षेण उन्मत्ता इव अभवत् । सम्पूर्णं दिनं सा कमपि अमिलतं तं नासाभूषणं दर्शयन्ती वयाहरत्, ” पश्य मे नासाभरणम् । किं नास्त्येतत् मनोहरम् ? मम भर्त्रा उपहृतम् । सत्यम्, स: मयि कियत् स्निह्यति ! “

दिनावसाने सा यथानित्यं भगवत्कथां श्रोतुं गता । किन्तु तस्या: मन: अद्य भतरिं विहाय अन्यत्र कुत्रापि न रमते । समाप्तायां कथायां सा कथावाचकं महात्मनम् अपि नासाभरणं दर्शयन्ती भर्तु: विषये एव आलपत् । स सर्वं सधैर्यं श्रुत्वा सदयस्वरेण अगदत् – वत्से,
नासाभरणदातारं स्मरसि त्वं पुन: पुन: ।
नासिकाया: प्रदातारं सर्वथा विस्मउता कथम् ॥

you are repeatedly remembering the one who gifted you the nose ring (ornament that is worn in nose)
how could you completely forgot THE ONE who gave you the nose.

———- meaning of new words ———

घटितं = happened, आपणात् = from grain-shop, शाटिका= saari (Indian women ware 5 meter long cloth), वययं = waste, युतकेन = shirt, पादत्रे = shoes सम्पुटमेकम् = a box,  नासाभरणम् = nose ring (ornament of nose),  धारय एतत् = wear (it) or put in on भर्त्रा = husband

——————————————————————————–

One Response to “विस्मृता कथम् ?”

  1. Himanshu Pota Says:

    भवता अतिसुन्दर-वार्ता लिखिता| अपि वययं इति भवति अथवा व्ययं इति?

    मह्यं भवतः शब्दचयनं रोचते|

    कृपया अधिकं लिखतु|

    भवदीयः इति
    हिमांशुः


Leave a Reply