त्रिसुपर्ण
ॐ ब्रह्ममेतु माम् | मधुमेतु माम् | ब्रह्ममेव मधुमेतु माम् |
यास्ते सोम प्रजा वत्सोऽभि सो अहम् | दुःष्वप्नहन् दुरुष्षह |
यास्ते सोम प्राणाँस्ताञ्जुहोमि |
त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् | ब्रह्महत्यां वा एते घ्नन्ति | ये ब्राह्मणास्त्रिसुपर्णं पठन्ति | ते सोमं प्राप्नुवन्ति |
आ सहस्रात् पङ्क्तिं पुनन्ति | ओम् || 38
ॐ ब्रह्म मेधया | मधु मेधया | ब्रह्ममेव मधुमेधया |
अद्यानो देव सवितः प्रजावत्सावीः सौभगम् | परा दुःष्वप्नियँ सुव | विश्वानि देव सवितर्दुरितानि
परासुव | यद्भद्रं तन्म (internet version says tanmama) आसुव
मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः | माध्वीर्नः
सन्त्वोषधीः | मधु नक्तमुतोषसि मधुमत्पार्थिवँ
रजः | मधुद्यौरस्तु नः पिता | मधुमान्नो वनस्पतिर्मधुमाँ
अस्तु सूर्यः | माध्वीर्गावो भवन्तु नः |
य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् |
भ्रूणहत्यां वा एते घ्नन्ति |
ये ब्राह्मणास्त्रिसुपर्णं पठन्ति | ते सोमं प्राप्नुवन्ति | आसहस्रात्पङ्क्तिं पुनन्ति ॥
ॐ ब्रह्म मेधवा | मधु मेधवा | ब्रह्ममेव मधु मेधवा |
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां
महिषो मृगाणाम् |
श्येनो गृद्धाणाँ स्वधितिर्वनानाँ
सोमः पवित्रमत्येति रेभन् internet version says rebhat.h||
हँसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् |
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥
य इमं (internet version says idaM) त्रिसुपर्णमयाचितं ब्राह्मणाय
दद्यात् |
वीरहत्यां वा एते घ्नन्ति |
ये ब्राह्मणास्त्रिसुपर्णं पठन्ति | ते सोमं प्राप्नुवन्ति |
आसहस्रात् पङ्क्तिं पुनन्ति ॥ 40.6
read more on www.sanskritdocuments.org here