सहिष्णुतायाः फलम्

Composed on 9/27/2007 11:27

सहिष्णुतायाः फलम्

आसीत् कोऽपि साधुः । एकदा स क्वचिद् गच्छति स्म । मार्गे स पश्यति यत् कश्चित् युवकः हस्तेन तुम्बर वादयन् अश्लीलगीतानि गायन् आस्ते ।

साधुः तत्समीपं गत्वा तिष्ठति उच्चैः आक्रोशितुं च आरभते — “प्रभुवर, त्वं सर्वमहान् । त्वमेव सर्वेषां रक्षकः । त्वां विनाऽस्य संसारस्य एकं पर्णमपि चलितुं न शक्नोति ।”

युवकः हर्षमत्तः गायति स्म । साधुम् आक्रोशन्तं दृष्ट्वा सोऽतिव कुपितः चीत्कृत्य अवदत् — “तूष्णीं भव । किं प्रजल्पसि ?”

साधुः तस्य वचने कर्णं न अदात् । स पुनरपि अवदत् — “हे प्रभो, बुद्धिहीनाय बुद्धिं देहि ।”

एतत् श्रुत्वा युवकः अत्यन्तं कृद्धः सन् तं तुम्बरेण सबलं शिरसि अताडयत् । तुम्बरं खण्डशः अभवत् । साधोः मस्तकाद् रक्तधारा अस्रवत्, परं स शब्दं न उच्चरन् अग्रे प्रस्थितः ।

स्वकुटीम् आगत्य स सर्वमपि वृत्तं शिष्याय निवेद्य अवदत् — “त्वं तं युवकम् उपगम्य तस्मै तुम्बरस्य मूल्यं मिष्टान्नपूर्णां स्थालीं च प्रयच्छ । अतिगर्ह्यः खलु क्रोधः । खिद्येऽहं यत् मम हेतोः स इदृक् कुपितः ।”

शिष्यः तुम्बरमूल्यं मिष्टान्नानि च गृहित्वा तत्र गत्वा तमवदत् — “इमानि द्रव्याणि साधुना तुभ्यं प्रेषितानि ।”

एतत् श्रुत्वा तत्कालं युवकस्य नेत्रे उन्मीलिते । स धावं धावं साधुम् उपगतः । स्वकार्याय च क्षमां प्रार्थयत ।

साधुः तम् अत्यन्तप्रेमपूर्वकं वक्षसा आलिङ्गितवान् ।

Leave a Reply