चरित्रवर्णनम्

Composed on 9/28/2007 11:05
चरित्रवर्णनम्
कदाचित् कश्चिद् राजा निजसभायां कविसंमेलनम् आयोजामास । सः अघोषयत् यः कविः निज-काव्येन राज्ञःचरित्रस्य यथार्थवर्णनं करिष्यति तस्मै एकं शुद्ध हीरकम् उपहाररूपेण प्रदास्यते इति । सम्मेलने बहवः कवयः समागत्य स्वकीयाः कविताः अश्रावयन्, नृपं च भूरिशः प्राशंसन् । इत्थं प्रत्येकं कविः राज्ञः अतिरञ्जितां स्तुतिम् अकरोत्, राजा च तस्मै एकं हीरकम् अददात् । अन्ते “साधुराम” नामकः कश्चित् कविः स्वकविता श्रावयितुं सभयं मञ्चम् उपस्थितः आदौ सः राज्ञः द्वित्रान् गुणान् अवर्णयत्, पश्चात् अवगुणानां वर्णनम् आरभत । राजा तस्मै अपि हीरकमेकम् उपाहरत् ।
ततः सर्वेऽपि कवयः स्वस्वहीरकं गृहीत्वा तस्य मूल्याङ्कनाय रत्नपरीक्षकान् उपगताः । साधुरामस्य हीरकं विहाय सर्वेऽपि हीराः कृत्रिमाः आसन् ।
कविगणाः राजानम् उपगम्य अवदन् — “महाराज, इमे हीरा तावद् असत्याः, एषां विनिमयेन कश्चिद् आणकम् अपि न उद्यतः ।”
राजा सावेशम् अवदत् — “यूयं स्वकवितासु मद्विषये यत्किमपि अवदत तदपि असत्यम् एव आसीत् । मम चरित्रस्य सत्यचित्रणं केवलं साधुरामः एव अकरोत् ।”

Leave a Reply