Composed on 9/27/2007 11:29
कः खलु महान् ?
एकदा भक्त शिरोमणिः देवर्षिः नारदः अचिन्तयत् – “को नु खलु सर्वमहान् अस्मिन संसारे ?” इमां जिज्ञासां शमयितुं स तत्त्वज्ञानिनः महापुरुषान् उपगतः । तेषु एकः अवदत् – “भगवान् एव महतो महीयान् ।” अपरश्च भगवतः गुणगायकं भक्तमेव सर्वश्रेष्ठम् अकथयत् । अन्ये ब्रह्म-विष्णु-महेशादीन् देवान् उच्चतमान् अघोषयन् । अन्ततः नारदः सन्देहाकुलः व्यचारयत् – “कः खलु अस्य प्रश्नस्य समीचीनमुत्तरं दातुं समर्थः ? न हि कोऽपि इदृशप्रश्नान् उत्तरयितुं प्रभवति भगवन्तं विना ।” एवं निश्चित्य स सच्चिदानन्दस्य भवभयहारिणः भगवतः विष्णोः वैकुण्ठलोकम् अगच्छत्, तत्र च प्रभुं साष्टाङ्गं प्राणमत् ।
प्रभुः अपृच्छत्- “देवर्षे, कथं दर्शनं दत्तम् अत्रभवता ? कच्चित् कुशलं श्रीमताम् ?”
नारदः निजागमनप्रयोजनं निवेदितवान् ।
तस्य प्रश्नं निशम्य भगवान् च उवाच – मुनिवर, पृथिवी एव सर्वमहती यतो हि एषा सर्वेषामाश्रयः ।
नारदः अवदत् – सा तु समुद्रेण परिवेष्टिता । अथ कथं सा महती भवितुम् अर्हति ?
भगवान् अभाषत् – तर्हि समुद्रः एव सर्वमहान् ।
नारदः अकथयत् – प्रभो, स तु अगत्स्यमुनिना चुलुकिकृतः । स महान् कथम् ?
भगवान् अब्रवीत् – तर्हि अगत्स्यमुनिः महान् ।
नारदः अवादीत्- नाथ, यदा स मुनिवरो ध्यानावस्थितो भवति तदा सः अस्मिन् अनन्ताकाशे खद्योतवत् स्फूरितुम् आरभते । तर्हि स महान् कथं भवितुमर्हति ?
भगवान् अभणत् – अस्तु तर्हि आकाशः सर्वमहान् ।
नारदः अवदत्- महाराज, विचित्रं खलु वदति भवान् । यदा भवान् वामनरुपेण अवातरत् तदा एकेनैव पादेन आकाशम् अमात् । तर्हि आकाशः महान् कथं मन्येत ?
भगवान् अकथयत् – नारदमुने, युक्तमुक्तं भवता, वस्तुतः मम चरणः एव सर्वमहान् ।
नारदः अब्रवीत्- प्रभो, भवतः चरणः तावत् मया हृदये धृतो वर्तते तर्हि स महान् कथम् ?
एतन्निषम्य भगवान् विहस्य अवदत् – देवर्षे नारद, तर्हि भवानेव सर्वमहान् । ये सततं मच्चरणचिन्तने निमग्नाः ते एव संसारे सर्वमहान्तः ।
एतद् अकर्ण्य प्रफुल्लितः अभवत् नारदः । भगवन्तं प्रणम्य च सः नारायण, नारायण इति जपन् मर्त्यलोकस्य सन्तप्तप्राणिनः निजयात्रायाः सन्देशं श्रावयितुं भूतलं प्रतिनिवृत्तः ।